सूत्रम्
अयामन्ताल्वाय्येत्न्विष्णुषु॥ ६।४।५५
काशिका-वृत्तिः
अयामन्ताऽल्वाय्यैत्न्विष्णुषु ६।४।५५
आम् अन्त आलु आय्य इत्नु इष्णु इत्येतेषु परतः णेः अयादेशो भवति। कारयञ्चकार। हारयाज्चकार। अन्त गण्डयन्तः। मण्डयन्तः। आलु स्पृहयालुः। गृहयालुः। आय्य स्पृहयाय्यः। गृहयाय्यः। इत्नु स्तनयित्नुः। इष्णु पोषयिष्णुः। पारयिष्णवः। न इति वक्तव्ये अयादेशवचनम् उत्तरार्थम्।
लघु-सिद्धान्त-कौमुदी
अयामन्ताल्वाय्येत्न्विष्णुषु ५२८, ६।४।५५
आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्। कामायाञ्चक्रे। आयादय इति णिङ् वा। चकमे। चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे। चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता। कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत। कामयिषीष्ट॥
न्यासः
अयामन्ताल्वाय्येन्त्विष्णुषु। , ६।४।५५
"कारयाञ्चकार" इति। "कास्प्रत्ययात्()"
३।१।३५ इत्यादिनाम्(), "आमः"
२।४।८१ इति लेर्लुक्(), "कृञ्च"
३।१।४० इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः द्विर्वचनमब्यासकार्यम्()। "गण्डयन्तः, मण्डयन्तः" इति। "गडि सेचने" (धा।पा।७७७) ["गड" धा।पा।(गडि वदनैकदेशे--धा।६५,३६१)] "मडि भूषायाम्()" (धा।पा।३२१), हेतुमण्णिच्(),
गडेर्घटादित्वाम्मित्त्वे सति पूर्ववद्? ह्यस्वत्वम्()। "जृवृषिब्यां झच्()" (द।उ।६।१७)["जृविशिभ्यां--द।उ।] इत्यनुवत्र्तमाने "तृ()भूवहिवसभासिसाधिगमिमण्डिजिनन्दिभ्यश्च" (द।उ।६।१९) [तृ()भूवहिवसिभासिसाधिगडिमण्डिजिवन्दिभ्यश्च--द।उ।] इति झच्(), अन्तादेशः। "स्पृहयालुः, गृहयालुः" इति। "स्पृह ईप्सायाम्()" (धा।पा।१८७१) "गृह ग्रहणे" (धा।पा।१८९९) चौरादिकावदन्तौ, "अतो लोपः"
६।४।४८ इत्यकरलोपः, तस्य स्थानिवत्त्वाल्लधूपधगुणाभावः, "स्पृहि गृहि"
३।२।१५८ इत्यादिनाऽऽलुच्()। "स्पृहयाय्यः" इति। "तनुदक्षिस्पृहिगृहिभ्य [श्रुदक्षिस्पृहिगृहिभ्य आय्यः--पं।उ।] आय्यः" (पंउ।३।९६) इति आय्यप्रत्ययः। "स्तनयित्नुः" इति। "स्तत गदी देवशब्दे" (धा।पा।१८५९,१८६०) चुरादावदन्तः, "अतो लोपः"
६।४।४८।
तत्रकारलोपस्य स्थानिवद्भावात्? "अत उपधायाः"
७।२।११६ इति वृद्धिर्न भवति। "स्तनिह्मषिपुषिगदिमदिभ्यो णेरित्नुच्()" [स्तनिह्मषिपुषिगदिमदिधुषिगन्धिमडिजनिनदिभ्यो णेरित्नुच्()--द।उ।] (द।उ।१।१४०) इतीलुष्प्रत्ययः। "पोषयिष्णवः, पारयिष्णवः" इति। "पुष पुष्टौ" (धा।प।७००) हेतुमाण्णिच्(), "पार तीर कर्मसमाप्तौ" (धा।पा।१९११,१९१२), चुरादिणिच्(), "णेश्छन्दसि"
३।२।१३७ इतीष्णुच्()।
अथ "न" इत्येवं कस्मान्नोक्तम्(), णिलोपे हि प्रतिषिद्धे गुण एव स्यात्(), तत्र "एचोऽयवायावः" (६।१।
७८) इत्ययादेशो भविष्यति; लधु चैवं सूत्रं भवति, "अय" इत्युच्यमाने मात्राधिक्येन सूत्रं गुरु भवतीति मत्वाऽऽह--"न इतिवक्तव्ये" इत्यादि। "ल्यपि लघुपूर्वात्()"
६।४।५६ इत्यत्र गुणाभावादयादेशो न स्याद्यदि नेत्युच्यते। तस्मादुत्तरार्थमयादेशवचनम्()॥
बाल-मनोरमा
अयामन्ताल्वाय्येत्न्विष्णुषु १५२, ६।४।५५
अयामन्ता। अयति छेदः। "णेरनिटी"त्यतो णेरित्यनुवर्तते। तदाह--णेरयादेशः स्यादिति। तथा च कामयामित्यमन्तं स्थितम्। ततः "कृञ्चानुप्रयुज्यते" इत्यनुप्रयोगाल्लिडिति मत्वाह-- कामयांचक्र इति। णिङ आयादिष्वन्तर्भावाल्लिडादावाद्()धधातुके तद्विकल्पमुक्तं स्मारयति--- आयादय इति। चकम इति। सेट्कोऽयम्। चकमिषे। चकमिध्वे।चकमिवहे। चकमिमहे। कामयियेति। लुटि णिङपक्षे तासि इटि वृद्धौ गुणेऽयादेशे रूपम्। कामयताम्। अकामय।कामयेत। कामयिषीष्ट--कमिषीष्ट।
तत्त्व-बोधिनी
अयामन्ताल्वाय्येत्न्विष्णुषु १२५, ६।४।५५
"नामन्ते"ति सूत्रितेऽपि "णेरनिटी"ति वक्ष्यमाणलोपस्य निषेधे गुणाऽयादेशयोः सतोः "कामयांचक्रे" इत्यादिरूपाणि सिद्यन्त्येव, तथापि "ल्यपि लघुपूर्वा"दित्येवमर्थमयादेशवचन्। प्रस्तनय्य। सङ्गमय्य। नह्रत्र गुणाऽयादेशौ लभ्येते।